दशावतारस्तोत्रं

प्रलयपयोधिजले धृतवानसि वेदं विहितवहित्र चरित्रमखेदम् केशव धृतमीनशरीर जय जगदीश हरे क्षितिरविपुलतरे तव तिष्ठति पृष्ठे धरणिधरणिकिंण चक्रगरिष्ठे केशव धृतकच्फपरूप जय जगदीश हरे वसति दशनशिखरे धरणी तव लग्ना शशिनि कलंककलेव निमग्ना केशव धृतसूकररूप जय जगदीश हरे तव करकमलवरेनखमद्भुतशृंगं दलितहिरण्यकशिपुतनुभृंगम् केशव धृतनरहरिरूप जय जगदीश हरे छलयसि विक्रमणे बलमद्भुत वामन पदनखनीरजनीत जन पावन केशव …

Continue reading

पांडरंगाष्टकं

महायोगपीठे तटे भीमरथ्या वरं पुंडरीकायदतुं मुनींद्रैः समागत्य तिष्ठंतमानंद कंदं परब्रह्मलिंगं भजे पांडुरंगं तडिद्त्वाससं नीलमेघावभासं रमामंदिरं सुंदरं चित्प्रकाशं वरं त्विष्टिकायां समन्यस्तपादं परब्रह्मलिंगं भजे पांडुरंगं प्रमाणं भवाब्धेरिदं मामकानां नितंभः कराभ्यां दृतो ये नतस्मात् विधातुर्वसत्यै दृतो नाभिकोश्ः परब्रह्मलिंगं भजे पांडुरंगं स्फुरत्कौस्तुभालंकृतं कंठदेशे श्री याजुष्टकेयूरकं श्रीनिवासं शिव शांतमीड्यं वरं लोकपालं परब्रह्मलिंगं भजे पांडुरंगं शरच्चंद्रबिंबाननं …

Continue reading

श्रीराम स्तोत्रं

प्रातः स्मरामि रघुनाथमुखारविंदं मंदस्मितं मृदुलभाषि विशालभालं कर्णावलंबिचलकुंडलशोभिगंडं कर्णांतदीर्घनयनं नयानाभिरामं प्रातर्भजामि रघुनथकरारविंदं रक्षोगणाय भयदं वरदं निजेभ्यः यद्राजसंसदि विभज्य महेंद्र चापं सीताकरग्रहणमंगलमाप शस्तम् प्रातर्नमामि रघुनाथपदारविंदं वज्रांकुशादिशुभरेखि शुभावहं मे योगींद्र मानसमधुव्रतसेव्य मानं शापापहं सपदि गौतमधर्मपत्न्याः प्रातर्वदामि वचसा रघुनाथनाम वाग्दोषहारि सकलं शमलं निहंति यत्पार्वती स्वपतिना सह मोक्षकामा प्रीत्या सहस्रहरिनामसमं जजाप प्रातः श्रये श्रुतिनुतां रघुनाथमूर्तिं …

Continue reading

विष्णुस्तोत्रं

प्रातः स्मरामि भवभीतिमहार्तिशांत्यै नारायणं गरुडवाहनमब्ज नाभं ग्राहभिभूतवरवारण मुक्तिहेतुं चक्रायुधं तरुणवारिजपत्रनेत्रं प्रातर्नमामि मनसा वचना च मूर्ध्य पादारविंदयगलं परमस्य पुंसः नारायणस्य नरकार्णवतारणस्य पारायणप्रवणविप्रपरायणस्य प्रातर्भजामि भजतामभयंकरं तं प्राक्सर्वजन्म कृतपापभयापहत्यै यो ग्राहवक्त्रपतितांघ्रि गजेंद्रघोर शोकप्रणाशमकरॊद्धृतशंखचक्रः श्लोकत्रयमिदं विष्णोः प्रातुत्था यः पठेत् लोकत्रयगुरुस्तस्मै दद्यादात्म पदं हरिः नारायणं रमाश्लिष्टं सर्वमंगलभाजनं चिंतयेत्प्रातरुत्थाय सर्वदुःखोपशांतये

Continue reading