विष्णुस्तोत्रं

प्रातः स्मरामि भवभीतिमहार्तिशांत्यै
नारायणं गरुडवाहनमब्ज नाभं
ग्राहभिभूतवरवारण मुक्तिहेतुं
चक्रायुधं तरुणवारिजपत्रनेत्रं

प्रातर्नमामि मनसा वचना च मूर्ध्य
पादारविंदयगलं परमस्य पुंसः
नारायणस्य नरकार्णवतारणस्य
पारायणप्रवणविप्रपरायणस्य

प्रातर्भजामि भजतामभयंकरं तं
प्राक्सर्वजन्म कृतपापभयापहत्यै
यो ग्राहवक्त्रपतितांघ्रि गजेंद्रघोर
शोकप्रणाशमकरॊद्धृतशंखचक्रः

श्लोकत्रयमिदं विष्णोः प्रातुत्था यः पठेत्
लोकत्रयगुरुस्तस्मै दद्यादात्म पदं हरिः

नारायणं रमाश्लिष्टं सर्वमंगलभाजनं
चिंतयेत्प्रातरुत्थाय सर्वदुःखोपशांतये

Leave a Reply

Your email address will not be published. Required fields are marked *