श्रीराम स्तोत्रं

प्रातः स्मरामि रघुनाथमुखारविंदं
मंदस्मितं मृदुलभाषि विशालभालं
कर्णावलंबिचलकुंडलशोभिगंडं
कर्णांतदीर्घनयनं नयानाभिरामं

प्रातर्भजामि रघुनथकरारविंदं
रक्षोगणाय भयदं वरदं निजेभ्यः
यद्राजसंसदि विभज्य महेंद्र चापं
सीताकरग्रहणमंगलमाप शस्तम्

प्रातर्नमामि रघुनाथपदारविंदं
वज्रांकुशादिशुभरेखि शुभावहं मे
योगींद्र मानसमधुव्रतसेव्य मानं
शापापहं सपदि गौतमधर्मपत्न्याः

प्रातर्वदामि वचसा रघुनाथनाम
वाग्दोषहारि सकलं शमलं निहंति
यत्पार्वती स्वपतिना सह मोक्षकामा
प्रीत्या सहस्रहरिनामसमं जजाप

प्रातः श्रये श्रुतिनुतां रघुनाथमूर्तिं
नीलांबुदोत्पलसितेतररत्ननीलां.
आमुक्तमौक्तिकविशेषविभूषणाढ्यां
ध्येयां समस्तमुनिभिर्जनमुक्तिहेतुम्

यः श्लोकपंचकमिदं प्रयतः पठेत्तु
नित्यं प्रभातसमये पुरुषः प्रबुद्धः
श्रीरामकिंकरजनेषु स एव मुख्यो
भूत्वा प्रयाति हरिलोकमनन्य लभ्यम्

Leave a Reply

Your email address will not be published. Required fields are marked *