श्री कृष्ण स्तोत्रं

श्री कृष्णः कमलानाथो वासुदेवः सनातनः वसुदेवात्मजः पुण्यो लीलामानुषविग्रह कृष्णाय वासुदेवाय देवकिनंदनाय च नंदगोपकुमाराय गोविंदाय नमोनमः वनमाली पीतवासाः पारिजातापहारकः गोवर्धनाचलोद्दर्ता गोपालः सर्वपालकः कृष्णाय यादवेंद्राय ज्ञानमुद्राय योगिने नाथाय रुक्षिणीशाय नमो वेदांतवेदिने नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च जगद्धिताय कृष्णाय गोविंदाय नमो नमः आकाशात्पतितं तोयं यथा गच्छति सागरं सर्वदेवनमस्कारः केशवं प्रति गच्छति