श्री कृष्ण स्तोत्रं

श्री कृष्णः कमलानाथो वासुदेवः सनातनः
वसुदेवात्मजः पुण्यो लीलामानुषविग्रह

कृष्णाय वासुदेवाय देवकिनंदनाय च
नंदगोपकुमाराय गोविंदाय नमोनमः

वनमाली पीतवासाः पारिजातापहारकः
गोवर्धनाचलोद्दर्ता गोपालः सर्वपालकः

कृष्णाय यादवेंद्राय ज्ञानमुद्राय योगिने
नाथाय रुक्षिणीशाय नमो वेदांतवेदिने

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च
जगद्धिताय कृष्णाय गोविंदाय नमो नमः

आकाशात्पतितं तोयं यथा गच्छति सागरं
सर्वदेवनमस्कारः केशवं प्रति गच्छति

Leave a Reply

Your email address will not be published. Required fields are marked *