श्री कृष्णाष्टक

वसुदेवसुतं देवं कंसचाणूरमर्दनं
देवकीपरमानंदं कृष्णं वंदे जगद्गुरुं

अतसीपुष्टसंकाशं हारनूपुरशोभितं
रत्नकंकणकेयूरं कृष्णं वंदे जगद्गुरुं

कुटिलालकसंयुक्तं पूर्णचंद्रनिभाननं
विलसत्कुंडलधरं कृष्णं वंदे जगद्गुरुं

मंदारगंधसंयुक्तं चारुहासं चतुर्भजं
बर्हिपिंछावचूडांगं कृष्णं वंदे जगद्गुरुं

उत्फुल्लपद्म पत्ताक्षं नीलजीमूतसन्निभं
यादवानां शरोरत्नं शिरोरत्नं कृष्णं वंदे जगद्गुरु

रुक्षिणीकेलिसंयुक्तं पीतांबरसुशोभितं
अवाप्ततुलसिगंधं कृष्णं वंदे जगद्गुरुं

गोपिकानां कुचद्वंद्व कुंकुमांकितवक्षसं
श्रीनिकेतं महेष्वासं कृष्णं वंदे जगद्गुरुं

श्रीवत्सांकं महोरस्कं वनमालाविराजितं
शंखचक्रधरं देवं कृष्णं वंदे जगद्गुरुं

कृष्णाष्टमिदं पुण्यं प्रातरुत्थाय यः पठेत्
कोटिजन्मकृतं पापं श्मरणेनविनश्यति

Leave a Reply

Your email address will not be published. Required fields are marked *