शिवपराधक्षमापणस्तोत्रं

आदौ कर्मप्रसंगात् कलयति कलुषं मातृकुकौस्प्थितं मां
विण्मूत्रामेद्यमध्ये क्वथयति नितरां जाठरो जातवेदाः
यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन मक्तुं
क्षंतव्यो मे पराधः शिव शिव भोः
श्री महादेव शंभो
बाल्ये दुःखातिरेकान्म ललुलितपपुः स्तन्यपाने पिपासः
नो शक्तश्चेंद्रियेभ्यो भवगुणजनिता जंतवो मां तुदति
नाना रोगातिदुःखाद्रु दनपरवशः शंकरं न स्मरामि
क्षंतव्यो मे पराधः शिव शिव भोः
श्रीमहादेव शंभो
प्रौढोहं यौवनस्थो विषयविषधरैः पंचभिःमर्मसंधौ
दष्टो नष्टो विवेकः सुतधनयुवतिस्वादुसौख्ये निषण्णः
शैवीचिंताविहीनं मम हृदयमहो मानगर्वाधिरूढं
क्षंतव्यो मे पराधः शिव शिव भोः
श्री महादेव शंभो
वार्धक्के चेद्रियाणां विगतमतिगतिश्चाधिदैवादितापैः
पापैः रोगैर्वियोगैस्त्व नमसितवपुः ज्ञप्तिहीनंच दीनं
विथ्यमोहाभिलाषैर्भ्रमति मम मनो धूर्जटेर्ध्यानशून्यं
क्षंतव्यो मेपराधः शिव शिव शिवभोः
श्री महादेव शंभो
स्नात्वा प्रत्यूषकाले स्वपनविधिविधौ नाहृतं गांगतोयं
पूजार्थं वा कदाचिद्बहुतरगहनात् खंडबिल्वीदलानि
नानीता पद्म माला सरसि विकसिता गंधधूपैस्त्वदर्थं
क्षंतव्यो मे पराधः शिव शिव शिव भोः
श्री महाद्व शंभो
दुग्थैर्मध्वाज्ययुक्तैः दधिगुडसहितैः स्नापितं नैव लिंगं
नो लिप्तं चंदनाद्यैः कनकविरचितैः पूजितंन प्रसूनैः
धूपैः कर्पूरदीषैः विविधरसयुतैः नैव भक्प्योपहारैः
क्षंतव्यो मे पराधः शिव शिव शिव भोः
श्री महादेव शंभो
नो शक्यं स्मातकर्म प्रतिपदगहनप्रत्यवायाकुलाख्यं
श्रौते वार्ता कथं मे द्जिजकुलविहिते ब्रह्म मार्गे सुसारे
ज्ञातो धर्मो विचारैः श्रवणमननयोः निधिध्यासितव्यं
क्षंतव्यो मे पराधः शिव शिव शिवभोः
श्रीमहादेव शंभो
ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनः नैव दत्तं द्वॆजेभ्यो
हव्यं ते लक्ष संख्यैः हुतवहदहने नार्पितं बीजमंत्रैः
नो तप्तं गांगतीरे व्रतजाआअपनियमैः रुद्रजाप्यं नजप्तं
क्षंतव्यो मे पराधः शिव शिव शिव भोः
श्री महादेव शंभो
नग्नो निस्संगशुद्दः त्रिगुणविरहितो ध्वस्तमोहांधकारो
नासाग्रे न्नस्तदृष्टिः विदितभगुणो नैव दृष्टः कदाचित्
उन्मन्या वस्थया त्वां विगतकलिमलं शंकरं न स्मरामि
क्षं तव्यो मे पराधः शिव शिव शिव भोः
श्री महादेव शंभो
स्थित्वा स्थाने सरोजे प्रणवमयमरुत् कंभिते सूक्ष्म मार्गे
शांते स्वांते प्रलीने प्रकटितविभवे दिव्यरूपे शिवाख्ये
लिंगज्ञे ब्रह्मवाक्ये सकलतनुगतं शंकरंन स्वरामि
क्षं तव्यो मे पराधः शिव शिव शिव भोः
श्री महादेव शंभो
हृद्यं वेदांतवेद्यं हृदयसरसिजे दीप्तमुद्यप्ट्रकाशं
सत्यंशांतस्वरूपं सकलमुनिमनः पद्मषंडैकवेद्यं
जाग्रत्स्वप्ने सुषप्तौत्रिगुणविरहितं शंकरं न स्मरामि
क्षंतव्यो मे पराधः शिव शिव शिव भोः
श्री महादेव शंभो
चंद्रोद्भासित शेखरे स्मरहरे गंगाधरे शंकरे
सर्पैर्भूषितकंठर्ण विवरे नेत्रोत्थ वैशानरे
दम्तित्वक्कृतसुंदरांबरदरे त्रैलोक्यसारे हरे
मोक्षर्थं कुरु चित्तवृत्तिमचलामन्यैस्तुकिं कर्मभिः
किंवा नेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं
किं वा पुत्रकलत्रमिइइत्रपशुभिः देहेन गेहेन किं
ज्ञात्वै तत् क्षणभंगुरं सपदि रे त्या ज्यं मनो दूरतः
स्वात्मार्थं गुरुवाक्य तो भज भज
श्री पार्वतीवल्लभं
पौरोहित्यं रजनिचरितं ग्रामणित्वं नियोगो
माठापत्यं ह्य नृतवचनं साक्षिवादः परान्नं
ब्रह्मद्वॆषः खलजनरतिः प्राणिनां निर्दयत्वं
माभूदेवं मम पशुवते जन्म जन्मांतरेषु

आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं
प्रत्यायांति गताः पुनर्न दिवसाः कालो जगद्भक्षकः
लक्ष्मीस्तोयतरंगभंगचपला विद्युच्चलं जीवितं
तस्मान्मां शरणागतं शरणद त्वं रक्ष रक्षाधुना

Leave a Reply

Your email address will not be published. Required fields are marked *