शिवषडक्षर स्तोत्रं

ओंकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिनः
कामदं मोक्षदं चैव ओं काराय नमो नमः

नमंति ऋषयो देवा नमंत्यप्सरसां गणाः
नरा नमंति देवेशं न काराय नमो नमः

महादेवं महात्मानं महाध्यनं परायणम्
महापापहरं देवं म काराय नमो नमः

शिवं शांतं जगन्नाथं लोकानुग्रहकारकम्
शिवमेकपदं नित्यं शि काराय नमो नमः

वाहनं वृषभो यस्य वासुकिः कंठभूषणम्
वामे शक्तिधरं देवं व काराय नमो नमः

यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः
यो गुरुः सर्वदेवानां यकाराय नमो नमः

Leave a Reply

Your email address will not be published. Required fields are marked *