विघ्नेशस्तोत्रं

प्रातः स्मरामि गणनाथमनाथ बंधुं
सिंधूर पूरपरिशोभितगंडयग्मं
उद्दंड विघ्नपरिखंडन चंददंड
माखंडलादिसुनायकवृंदवंद्यम्

प्रातर्नमामि चतुराननवंद्यमान
मिच्छानुकूलमुखिलं चढिवरं ददानं
तं तुदिलं द्विरसनप्रिययज्ञसूत्रं
पुत्रं विलासचतरं शिवयोः शिवाय

प्रातर्भजाम्यभयदं खलु भक्तशोक
दावानलं गणविभु वरकुंजरास्यं
अज्ञानकननविनाशनहव्यवाह
मुत्साहवर्धनमहं सुतमीश्वरस्य

श्लोकत्रयमिदं-पुण्यं सदा साम्राज्यदायकं
प्रातरुत्थाय सततं यः पठेत्प्रयतः पुमान्

Leave a Reply

Your email address will not be published. Required fields are marked *