परब्रह्मस्तोत्रं

प्रातः स्मरामि हृदि संस्फुरदात्म तत्त्वं
सच्चित्सुखं परमहंसगतिं तुरीयं
यःत्स्वप्नजागरसुषुप्तमवैति नित्यं
तद् ब्रह्म निष्कलमहं न च भूतसंघः
प्रतर्भजामि मनसो वचसामगम्यं
वाषो विभांति निखिला यदनुग्रहेण
यन्नेति नेति वचनैर्नि गमा अवोचुस्तं
देवदेवमजमुच्चुतमाहुरग्र्यं
प्रातर्नमामि तपसः परमर्कवर्णं
पूर्णं सनातनपदं पुरुषोत्तमाख्यं
यस्मिन्निदं जगदशेषमशेषमूर्तौ
रज्वां भुजंगम इव प्रतिभासितं वै
श्लोकत्रयनिदं पुण्यं लोकत्रयविभूषणं
प्रतःकले पठेद्यस्तु स गच्छेत् परमं पदम्

Leave a Reply

Your email address will not be published. Required fields are marked *