श्री गणेशपंचरत्नमालिका स्तोत्रं

मुदा करात्तमोदकं सदा विमुक्ति साधकं
कलधरावतंसकं विलासिलोकरक्षकम्
अनायकैकनायकं विनाशितेभदैत्य कं
नताशुभासुनाशकं नमामि तं विनायकम्

नतेतरातिभीकरं नवोदितार्क भास्वरं
नमत्सुरारिनिर्जं नताधिकापदुद्धरम्
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरंतरम्

समस्तलोकशंकरं निरस्तदैत्यकुंजरं
दरेतरोदरं वरं वरे भवक्त्रमक्षरम्
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्क्रतां नमस्करोमि भास्वरम्

अकिंचनार्तिमार्जनं चिरंतनोक्तिभाजनं
पुरारिपूर्वनंदनं सुरागिगर्वचर्वणम्
प्रपंचनाशभीषणं धनंजयादिभूषणं
कपोलदानवारणं भजे पुराणवारणम्

नितांतकांतदंतकांतिमंतकांतकात्म जं
अचिंत्य रूपमंतहीनमंतरायकृंतनम्
हृदंतरॆ निरंतरं वसंतमेव योगिनां

तमेक दंतमेक मेव चिंतयामि संततम्
महागणेशपंचरत्नमादरेण यो/न्वहं

प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम्
आरोगतामदोषतां सुदारतां सुपुत्रतां
समाहितायुरष्पभूतिमभ्युपैति सो/चिरात्

Leave a Reply

Your email address will not be published. Required fields are marked *