श्रीलक्ष्मी स्तोत्रं

क्षमस्व भगवत्यंब क्षमाशीले परात्परे
शुद्धसत्त्व स्वरूपे च कोपादिपरिवर्जिते

उपमे सर्वसाध्वीनां देवीनां देवपूजिते
त्वया विना जगत्सर्वं मृततुल्यं निष्फलं

सर्वसंपत्स्व रूपा त्वं सर्वेषां सर्वरूपिणी
रासेश्वर्यधिदेवी त्वं त्वत्कलाः सर्वयोषितः

कैलासे पार्वति त्वं च क्षीरोदे सिंधुकन्यका
स्वर्गे च स्वर्गलक्ष्मिस्त्वं मर्त्यलक्ष्मीश्च भूतले

वैकुंठे च महालक्ष्मीर्देवदेवी सरस्वती
गंगा च तुलसीच त्वं साववित्री ब्रह्मलोकतः

कृष्णाप्राणाधिदेवी त्वं गोलोके राधिका स्वयं
रासे रासेश्वरी त्वं च वृंदावनवने वने

कृष्णप्रिया त्वं भांडीरे चंद्रा च दंदनकानने
विरजा चंपकवने शतशृंगे च सुंदरी

पद्मावती पद्मवने मालती मालतीवने
कुंददंती कुंदवने सुशीला केतकीवने

कदंबमाला त्वं देवी कदंबेकानने७पि च
राजलक्ष्मी राजगेहे गृहलक्ष्मिर्गृहे गृहे

इत्युक्त्वा देवताः सर्वे मुनयो मनवस्तथा
रुरुदुर्नम्रवदनाः शुष्ककंठोष्म तालुकाः

इति लक्ष्मीस्तवं पुण्यं सर्वदेवैः कृतं शुभं
यः पठेत्प्रातरुत्थाय स वै सर्वं लभेद्ध्रुवं

अभार्यो लभते भार्यां विनीतां च सुतां सतीं
सुशीलां सुंदरीं रम्यामतिसुप्रियावादिनीं

पुत्रपौत्रवतीं शुद्धां कुलजां कोमलां वरां
अपुत्रोलभते पुत्रं वैष्णवं चिरजीविनं

परमैश्वर्ययुक्तं च विद्यावंतं यशस्विनं
भ्रष्टराज्यो लभेद्राज्यं भ्रष्टश्रिर्लभते श्रियं

हतबंधुर्लभेद्भंधुंधनभ्रष्टो धनं लभेत्
कीर्तिहीनो लभेत्कीर्तिं प्रतिष्ठांच लभेद्ध्रुवं

सर्वमंगलदं स्तोत्रं शोकसंतापनाशनं
हर्षानंदकरं शश्वद्धर्ममोक्षसुहृत्प्रदं

Leave a Reply

Your email address will not be published. Required fields are marked *