शिवस्तोत्रं

प्रातः स्मरामि भवभीतिहरं सुरेशं
गंगाधरं वृषभवाहनमंबिकेशं
खट्वांगशूलवरदाभयहस्तमिशं
संसाररोगहरमौषधमद्वितीयं

प्रातर्नमामि गिरिशं गिरिजार्धदेहं
सर्ग स्थिति प्रलयकारणमादिदेवं
विश्वेश्वरं विजितविश्वमनोभिरामं
संसाररोगहरमौषधमद्वितीयं

प्रातर्भजामि शिवमेकमनंतमाद्यं
वेदांतवेद्य मनघं पुरुषं महांतं
नामादिभेधरहितं षडभावशून्यं
संसाररोगहरमौषधम द्वितीयं

प्रातः समुत्थाय शिवं विचिंत्य
श्लोकत्रयं येनुदिनं पथन्ति\
ते दुःखजातं बहुजन्म संचितं
हित्वा पदं यान्ति तदेव शंभोः

गंगाधरमुमाश्लिष्टं सर्वमंगलभाजनं
चिंतॆयेत्प्रातरुत्थाय सर्व विघ्नौघशांतये

Leave a Reply

Your email address will not be published. Required fields are marked *