चर्पटक पंजरिकास्तोत्रम्

[भज गोविंदं ]
भज गोविंदं भज गोविंदं मूढमते
संप्राप्रे सन्निहिते मरने नहि नहि रक्षति डुकृ- करणे

नदिनमपि रजनी सायं प्रातः शिशिरवसंतौ पुनरायातः
कालः क्रीडति गच्छत्यायुः तदपिन मुंचत्याशावायुः

अग्रेवह्निःपृष्ठे भानू रात्रौ चिबुकसमर्पितजानुः
करतलभिक्षा तरुतलावासः तदपिन मुंचत्याशापाशः

यावद्वित्तोपार्जशक्तः तावन्नि जपरिवारो रक्तः
पश्चाद्धावति जर्जरदेहे वार्तां पृच्छति कोपि न गेहे

जटिलो मुंडी लंचितकेशः काषायांबर बहुकृतवेषः
पश्यन्नपि न पश्यतिमूढः उदरनिमित्तं बहुकृतवेषः

भगद्गीता किंचिदधीता गंगाजललवकणिका पीता
सकृदपि यस्य मुरारिसमर्चा तेन करोति यमोपिन चर्चा

अंगं गलितं पलितं मुंडं दशनविहीनं जातं तुंडं
वृद्धो याति गृहीत्वाठ दंडं तदपिन मुंचत्याशापिंडं

बालस्तावत् क्रीडासक्त्ः तरुणस्ताव् तरुणीरक्तः
वृद्धस्तावत् विंतालग्नः परमे ब्रह्मणि कोपि न लग्नः

पुरपि जननं पुनरपि मरणं पुनरपि जननीठरे शयनं
इह संसारे खलु दुस्तारे कृपया पारे पहि मुरारे

पुनरपि रजनी पुनरपि दिवसः पुनरपि पक्षः पुनरपिमासः
पुनरप्ययनं पुनरपि वर्षंतदपिन मुंचत्याशामर्षं

वयसि गते कः कामविकारः शुष्के नीरे कः कासारः
नष्टेद्रव्येकः परिवारः ज्ञाते तत्व्तेकः संसारः

नारीस्तनभरनाभिनवेशं मिथ्यामायामोहावेशं
एतन्मांसवसादिविकारं मनसि विचारय वारं वारं

कस्त्वं कोहं कुत आयातः का मे जननी को मे तातः
इति परिभावय सर्वमसारं विश्वं त्यक्त्वा स्वप्नविचारं

गेयं गीतानामसहस्र ध्येयं श्रीपति रूपमजस्रं
नेयं सज्जनसंगे चित्तं देयं दीनजनाय च वित्तं

यावज्जीवो निवसति देहे कुशलं तावत् पृच्छति गेहे
गतिवति वायौ देहापाये भार्या बिभ्यति तस्मिन् काये

सुखतः क्रियते रामाभोगः पश्चाद्धंत शरीरेरोगः
यद्यपि लोके मरणं शरणं तदपि न मुंचति पापाचरणं

रथ्यकर्पटविरचितकंथः पुणायपुण्यविवर्जितपंथः
नाहः न त्वं नायं लोकः तदपि किमर्थं क्रियते शोकः

कुरते गंगासागरगमनं व्रतपरिपालनमथवा दानं
ज्ञानविहीने सर्वमनेन मुक्तिर्नभवति जन्मशतेन

Leave a Reply

Your email address will not be published. Required fields are marked *

Time limit is exhausted. Please reload the CAPTCHA.